अनसूया - सखि तपोवन का कोई भी ऐसा जीव नहीं है जो तुम्हारे वियोग से व्याकुल न हो। देखो तो-
शाङ्ग-आज्ञापयतु भवान् ।
//कण्वः - अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलचात्मन-स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिश्व ताम् ।
अत्र सम्पूर्णस्य तपोवनस्य शकुन्तलायाः विरहलिन्नत्वं योत्यते । अत्र परिसंख्या-लङ्कारः । आर्या च जातिः ।
व्याख्या- कण्वः इति-साम्प्रतम् राज्ञे दुष्यन्तायोचितम् संदेशम् विचार्य महर्षि कण्वः स्वशिष्यं शाङ्ग रवमाह- वत्स पुत्रः, शाङ्गरव, त्वया मम श्रेष्ठ शिष्येण, मद्वचनात् = ममादेशात्, शकुन्तलाम् इमाम् मम पालिताम् पुत्रीम्, पुरस्कृत्य = अग्रे कृत्वा, सः प्रख्यातमः, राजा दुष्यन्तः, इति = अनेक प्रकारेण, अभिधातव्य = वक्तव्यः । यम् संदेशमहम् तस्मै वच्मि अद्यस्तात् स एव वक्तव्य इत्यर्थः ।
व्याख्या- शाङ्गति- भवान् मम पूज्याचार्यः, आज्ञापयतु = आदिशतु ।
व्याख्या कण्वः इति अस्मानित्यादि--
अन्वयः- अस्मान् संयमधनान् साधुविचिन्त्य, च आत्मनः उच्चैः कुळम् त्वयि अस्याः कथमपि; अबान्धवकृताम् ताम् स्नेह प्रवृत्तिन्च (विचिन्त्य) त्क्या इयम् सामान्यप्रतिपत्तिपूर्वकम् दारेषु दृश्या अतः परम् भाग्याधीनम् तत् खलु स्त्रीबन्धुभिः न याच्यते ।। १९ ।।
व्याख्या-अयं श्लोकः अभिज्ञानशाकुन्तलस्य नाटकस्य मनोजतमेषु चतुर्षु श्लोकेषु अन्यतमं स्थानं विर्भात । अस्मिनश्लोके महषिः कण्वः राजानम् दुष्यन्तम् सन्दिशति यत् यस्मात् कारणात् त्वयेयम् मम दुहिता शकुन्तला गान्धर्वेण विधिनो-
चक्रवाकी के द्वारा बुलाए जाने पर भी अपने मुख में मृणाल लिए हुए चक्रवाक अपनी पत्नी से नहीं बोलकर, केवल तुम्हें ही देख रहा है ।। १८ ।।
कण्व-वत्स ! शकुन्तला को आगे करके तुम मेरी ओर से राजा को यह
कहना ।
शाङ्गरव-आप आज्ञा करें।
कण्व-हम तपस्वी लोगों, अपने महान् वंश तथा आपके विषय में इस शकुन्तला के अनुरागातिशय्य का अच्छी तरह से विचार करके आप अपनी पत्नियों
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया । भाग्याधीनमतः परं न खलु तत्स्त्रीबन्धुभिर्याच्यते ।। १९॥॥
शाङ्ग गृहीतोऽयं सन्देशः ।
द्वाहिता तस्मात् कारणात् त्वया इयम् सामान्य स्त्रीरूपेणावश्यं समादरणीया । इत्येव स्त्रीबान्धवैः सर्वैः काम्यते । एतस्मात् परम् स्त्रियः उच्च पदप्राप्तिरूपम् पट्टमहिषि-त्वादिकं तु भाग्याधीनम् भवति । तस्य कामना स्त्रीबान्धवैः नहि क्रियते ।
अस्मान् अस्याः शकुन्तलायाः स्वजनान्, तपोधनान् तपांसि एवं धनानि येषाम् तथाभूतान् आश्रमवासिनः, साधु = सम्यक्तया, विचिन्त्य विचार्य, मनसा पर्यालोच्येत्यर्थः । च किञ्च, आत्मनः स्वस्य दुष्यन्तस्येति यावत्, उच्चैः = तथाविधम् समुन्नतम्, कुलम् = वंशच्च, सम्यक्तया विचिन्त्य । यतः तथाविधोच्च कुलसंम्भूताः जनाः प्रतारणापरायणा नो भवन्ति । अतएव त्वयाप्यस्याः शकुन्तलायाः प्रतारणा नहि करणीया। च किश्व, त्वयि तव राज्ञो दुष्यन्तस्य विषये, अस्याः = शकुन्तलायाः, कथमपि येन केनापि प्रकारेण, अथवा अदृष्टादिवशादेव हेतोः, अबान्धवकृताम् = स्वबन्धुजनैरसम्पादिताम्, त्वया सह शकुन्तलायाः गान्धर्वेण-विधिनोद्वाहितत्वात् ताम् = तथाविधाम् अत्यधिकमात्रायाम् सञ्जातामनिर्वच-नीयाम्, स्नेहस्य - अनुरागस्य, प्रवृत्तिम् उत्पत्तिश्व, साधुविचिन्त्यः इयम् = एषा मम दुहिता शकुन्तला, त्वया = राज्ञा दुष्यन्तेन, सामान्या = साधारणी दारविषयिणी या, प्रतिपत्तिः समादरणीयताबुद्धिः, तयां पूर्वकम्, दारेषु बह्वीषु पत्नीषु, राज्ञाम् प्रायेण बहुबल्लभात्वात्, दृश्या द्रष्टव्या । न तु ममान्याः पत्नयः राज-दारिकाः इयं तु मुनिकन्यका, इत्यनेन प्रकारेण भेदबुद्धिकर्त्तव्या । अतः = एतस्मात्, परम् - अधिकम्, पट्टमहिषित्वादिकम् तु, भाग्याधीनम्- दैवाधीनम् भवति, तत् = तथाविधम् प्रधानमहिषित्वादिरूपम्, खलु निश्चयेन, स्त्रीणाम् नारीणाम्, बन्धुभिः = बान्धवैः, न नहि, याच्यते प्रार्थ्यते ।
तुल्ययोगिता-काव्य लिङ्ग-अप्रस्तुतप्रशंसाख्यानामलङ्काराणाम् परस्परम् नैरपेक्ष्येण विद्यमानत्वात् एतेषां संसृष्टिः ।
'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ।' इति लक्षणानुसारेणात्र श्लोके शार्दूलविक्रीडितम् वृत्तम् ।। १९ ।।
व्याख्या-शाङ्ग० इति - अयम् - भवता आचार्येण माम् प्रत्युक्तः सन्देशः = संदिष्ट अर्थः, मया शाङ्गरवेण, गृहीतः सावधानतया श्रुतः अवधारितश्च ।
में सामान्य पत्नी रूप से इसे देखेंगे, इससे अधिक सौभाग्य की प्राप्ति तो भाग्याधीन होती है, उसकी याचना स्त्री के बान्धवजन नहीं करते हैं ।। १९ ।।
शाङ्गरव- मैंने आपके संदेश को ग्रहण कर लिया ।
कण्वः सा त्वमितः पतिगृहं प्राप्य -
शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्ति सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
व्याख्या- कश्व इति शकुन्तलाम् स्वपुत्रीम्, विलोक्य दृष्ट्वा, वत्से =
पुत्रि ! इदानीम् = साम्प्रतम्, त्वम् शकुन्तला, अनुशासनीया उपदेष्टब्या असि । वयम् कण्वः, अत्रात्मगौरवद्योतनाय बहुवचनान्तप्रयोगः। वनौकसोऽपि वनवासिनः आपि । लौकिकज्ञा एव लोकवृत्तान्ताभिज्ञा एव । अत्रापिना वनवासिनाम् सामान्य-तया लोकानभिज्ञत्वम् महर्षेः कण्वस्य तदभिन्नत्वम् सूचयति ।
व्याख्या-शाङ्ग इति भगवन्! ऐश्वर्य सम्पन्न आचार्य, धीमताम् =
बुद्धिमताम् जनानाम् कृते, खलु निश्वयेन, कश्चित् कश्चनापि, अविषयः = अज्ञेयः, न नहि, भवति जायते । भवद् विधाः संयमधनास्तु सर्वज्ञाः अथवा बहुज्ञा एव भवन्ति ।
व्याख्याः कण्व इति- साम्प्रतम् आचार्यः कण्वः शकुन्तलामुपदेष्टुमाह-सा = यस्याः वियोगे तपोवनस्य सर्वे जीवाः व्याकुलाः सन्ति सा त्वम् = शकुन्तला, इतः - अस्मात् तपोवनात्, पतिगृहम् = स्वभर्तुगृ हैं, प्राप्य गत्त्वाः शुश्रुषस्व० इत्यादिकम् -
अन्वयः- गुरुन् शुश्रूषस्व, सपत्नीजने, प्रियसखी वृत्ति कुरु, विप्रकृता अपि रोषणतया भर्तुः प्रतीपं मास्मगमः । परिजने भूयिष्ठं दक्षिणा भव, भोगेषु अनुत्सेकिनी (भव) एवं युवतयः गृहिणीपदं यान्ति, वामाः कुलस्या आधयः भवन्ति ।
व्याख्या- अस्मिञ्छ्लोके महर्षिः कण्वः उपदिशति शकुन्तलां यत् त्वया स्वभर्तुगृ हे गुरुजनानाम् पतिश्वश्वश्रवादिकानांसेवा कर्त्तव्या, सपत्नीष्वपि सौमनस्य पूर्वको व्यवहारः कर्त्तव्यः, भर्गापमानिताऽपि तस्य विरोधं मा कार्षीः अपि तु सर्वदा
कण्व (शकुन्तला को देखकर) पुत्रि! अब तुमको उपदेश देना आवश्यक है, क्योंकि हम वनवासी होकर भी लौकिक व्यवहार को जानते हैं।
शाङ्गरव-आचार्य बुद्धिमान के लिए कोई भी विषय अज्ञेय नहीं होता ।
- कण्व - शकुन्तले ! यहाँ से अपने पति के घर जाकर गुरुजनों की सेवा करना, अपनी सौतों से प्रियसखी का व्यवहार करना, अपमानित होकर भी क्रोध के कारण अपने पति के विपरीत आचरण न करना, अपने परिवार जनों के प्रति औदार्यपूर्ण
२३४
अभिज्ञानशाकुन्तलम्
V.
JP भूयिष्ठं भव दक्षिणा परिजने भौगष्वनुत्से किनी यान्त्येवं गृहिणीपवं युवतयो वामाः कुलस्याधयः ।।२०।।
गौतमी वा कि मन्यते ।
भर्तुः सेवैव पत्ल्याः शाश्वतिकोधर्मः । पातिव्रत्येनैव पल्यः सर्वोत्कृष्टं पदं लभन्ते वैषयिकान् भोगानवाप्यापि तेषु लिप्ता मा भूः, एवं व्यवहारं कारिण्यः पत्त्यः स्वभर्तु-वल्लभाः भवन्ति । एतदविरुद्धाचरण शालित्यस्तु नार्यः स्ववंशस्य दुःखदायिन्य एव भवन्ति । अव महर्षिः नारीजीवनस्य चरमोत्कर्षस्य मन्त्रानुपदिशति स्म। भारतीयानां नारीणामियमेव प्राचीनतमा गौरवशालिनी व्यवहात्परम्परा वर्तते ।
गुरुन् = श्वश्रूश्वशुरादिकान् शुश्रुषस्व भोजनजलपानप्रदान सद्व्याहा रव्यव-हारादिभिः सेवस्व, समानः पतिः यस्यासा सपत्नी सा चाऽसौ जनः सपत्नीजनः तस्मिन् विषये, प्रियसख्याः प्रियवयस्यायाः वृत्तिम् व्यवहारम् कुरु- विधेहि । तेषुवैरम् मा वह। विप्रकृता अपमानिता अपि त्वम्, भर्तुः स्वस्वामिन्, प्रती-पम् - विपरीताच रणवती, प्रतिकूलाचरणकारिणी, मा स्मगमः मा भूः । सर्वास्वेव दशासु पत्युरनुकूलाचरणमेव त्वयाविधेयम् । परिजने परिवारवर्गविषये, स्वानुचरा-दिवर्गविषये इत्यर्थः । भूयिष्ठम् अत्यधिकम्, दक्षिणा अनुकूलाचरणकारिणीभव भोगेषु - रूपरसगन्धस्पर्शशब्दादिकानाम् भोगानाम् विषये, अनुत्सेकिनी गर्वरहिता भव । एवम् अनेन प्रकारेणानुकूलाचरणवत्यः, युवतयः नार्यः, गृहिणीपदम् = प्रधानपत्याः स्थानं, यान्ति लभन्ते। वामाः एतद्विपरीत आचरणवत्यस्तु नार्यः, कुलस्य - उभयवंशस्य, आधयः मनोव्यथाकारिण्यो भवन्ति ।।
अस्मिञ्छ्लोके अर्थान्तरन्यासरूपकयोः परस्परनैरपेक्ष्येणसंसृष्ठिः । 'सूर्याश्वैर्मस-जस्तताः सगुरवः शार्दूलविक्रीडितम् ।' इति लक्षणानुसारेणशार्दूलविक्रीडितम् वृत्तम् ।। २० ।।
स्रीणामावश्यकोपदेष्टव्यविषय सम्यकतया स्त्रियः एब जानन्ति इति मनसि पर्यालोच्याह मषिः कण्वः, वा अथवा, गौतमी, परिज्ञातानेकवृत्तान्ता लोके वेदेच परिचिता मम धर्म भगिनी गौतमी, कि मन्यते किम वक्ति । मयोपदिग्टेनै वाथैणालमथवाऽन्यदपि किमप्युपदेष्टव्यमवशिष्यते ?
व्यबहार करना तथा भोगों का गर्व न करना। इस प्रकार का आचरण करने वाली युवतियाँ गृहस्वामिनी बन जाती हैं और इसके प्रतिकूल आचरण करने वाली तो अपने दोनों वंशों को दुःखमात्र पहुँचाती हैं ॥ २० ॥
अथवा इसके विषय में गौतमी क्या कहती है।
कण्व वत्से! किमेवं कातरासि ? अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैरस्य प्रतिक्षणमाकुला । तनयमचिरात्प्राचीवार्क प्रसूय च पावनं मम विरहजां न त्वं वत्से ! शुचं गणयिष्यसि ।। २१ ।।
अङ्कात् = क्रोडात्, परिभ्रष्टा = विश्लिष्टा, अहम् मलयाचलात्, उन्मूलिता = उत्पा-दिता, चन्दनस्य हरिचन्दनस्य, लतेव शाखेव, देशान्तरे = एतस्मात् तपोवनात् भिन्ने हस्तिनापुराख्ये प्रदेशे, कथम् केन प्रकारेण, जीवतम् जीवनम्, धारयिष्यामि, जीविष्यामीत्यर्थ ।
व्याख्या- कण्वः इति- विरहकातराम् शकुन्तलामवेक्ष्य तां सान्त्वयन् महषिः कण्वः प्राह-वत्से = पुत्रि, एवम् अनेन प्रकारेणात्यधिकम्, कातरा = व्याकुला, किम् = कस्माद्धेतोः, असि भवसि । अभिजनवतः इत्यादि -
अन्वयः- वत्से अभिजनवतः भर्तुः श्लाध्ये गृहिणीपदे स्थिता, अस्य विभव-गुरुभिः कृत्यैः प्रतिक्षणम् आकुला, च अचिरात् प्राची अर्कमिव, पावनम् तनयम् प्रसूय मम विरहह्णाम् शुचं न गणयिष्यसि ।
व्याख्या - अस्मिञ्छ्लोके तपोवनात् स्वपत्युर्गं हं गच्छन्तीम् विप्रयोगव्याकुलाम् शकुन्तलामवलोक्य तां सान्त्वयन् मर्षिः कण्वः ताम् प्राह सान्त्वयन् यत् एतस्मात् स्थानात् गत्वा दुष्यन्तस्य गृहिणीपदे स्थिता त्वम्, नानाविधकार्यसम्पादनव्यग्रा अचि-रात्- पुत्रम् च प्रसूय त्वम् मम विरहजन्यम शोकम् विस्मरिष्यसि
वत्से - पुत्रि ! अभिजनवतः उत्तम पुरुवंशावतंसस्य, भर्तुः = स्वामिनो दुष्यन्तस्य, श्लाघनीये प्रशंसा योग्ये, गृहिणीपदे प्रधानपत्नी पत्न्याः पदे, स्थिता =
आरूढा सति त्वम्, अस्य राज्ञो दुष्यन्तस्य, विभवगुरुभिः ऐश्वर्यसम्पत्या महत्त्वत्-युक्तैः, कृत्यैः कार्यः, प्रतिक्षणम् सर्वदा, आकुला व्यस्ता, त्वम् च
